📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः १४
Page 1
Download 📥
________________ श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४.१ ॥ ॥ ॐ ॥ बुद्धिर्योगे त्विमां शृण्वति' (२.३९ ) द्वितीये प्रतिज्ञाय आषष्ठसमाप्तेः कामादिवर्जनादीतिकर्तव्यतासहितं कर्म ध्यानलक्षणं ज्ञानसाधनमुक्तम् । तत्रेतिकर्तव्यतांशं उत्तराध्यायपञ्चकेन प्रपञ्चयतीति प्रघट्टार्थः । तत्र बन्धप्रकारे ज्ञाते सत्येव तन्मोचनसाधनस्य तदितिकर्तव्यस्य चानुष्ठानाय तत्प्रपञ्चनं युज्यते । बन्धश्च ”कारणं गुणसङ्गोऽस्य" (१३.२६) इत्यादिना पूर्वाध्यायोक्तक्षेत्रक्षेत्रसंयोगहेतुकप्राणिजननविवरणपूर्वकं त्रिगुणविकारस्थितिं तदत्ययोपायं च दर्शयत्यस्मिन्नध्याये । 'कार्यते ह्यवशः कर्म' (३.५) इति तृतीयाध्याये सङ्क्षेपेण त्रैगुण्यस्योक्तत्वेऽपीह तस्य विविच्य कीर्तनमिति ज्ञेयम् । श्रोतुरादरजननाय वक्ष्यमाणमर्थं प्रतिज्ञाय तौ ॥ परमिति द्वयेन । परमन्यद्भूयः (???) पुनः प्रवक्ष्यामि । तत्किमित्यत उक्तम् ॥ ज्ञानानामिति । कर्मणि ल्युट् । ज्ञातव्यानां मध्ये उत्तमं ज्ञानं ज्ञातव्यम् । यज्ज्ञात्वा मुनयो मननशीलाः सर्वे इतः संसारात्परां सिद्धिं मोक्षं गताः प्राप्ताः ॥ १४.१॥ इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च ॥१४.२॥ इदं ज्ञानं वक्ष्यमाणार्थज्ञानमुपाश्रित्य संपाद्य मम साधर्म्य सारूप्यं आगताः प्राप्ताः । शिष्टं व्यक्तम् ॥१४.२॥ मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥ १४.३॥ १